शिव मानस पूजा Shiv Manas Puja Lyrics

Shiv Manas Puja Lyrics In Hindi, Shiv Manas Puja Is A Latest Shiv Devotional . Sung By Pujya Bhaishree Rameshbhai Ojha. And Shiv Ji Always Keeps His Blessings On His Devotees.


Shiv Manas Puja Lyrics

रत्नैः कल्पितमासनं हिमजलैः
स्नानं च दिव्याम्बरं

नानारत्नविभूषितं मृगमदा
मोदाङ्कितं चन्दनम्।

जाती-चम्पक-बिल्व-पत्र-रचितं
पुष्पं च धूपं तथा

दीपं देव दयानिधे पशुपते
हृत्कल्पितं गृह्यताम्॥

सौवर्णे नवरत्न-खण्ड-रचिते
पात्रे घृतं पायसं

भक्ष्यं पञ्च-विधं पयो-दधि-युतं
रम्भाफलं पानकम्।

शाकानामयुतं जलं रुचिकरं
कर्पूर-खण्डोज्ज्वलं

ताम्बूलं मनसा मया विरचितं
भक्त्या प्रभो स्वीकुरु॥

छत्रं चामरयोर्युगं व्यजनकं
चादर्शकं निर्मलम्

वीणा-भेरि-मृदङ्ग-काहलकला
गीतं च नृत्यं तथा।

साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा
ह्येतत्समस्तं मया

संकल्पेन समर्पितं तव विभो
पूजां गृहाण प्रभो॥

आत्मा त्वं गिरिजा मतिः सहचराः
प्राणाः शरीरं गृहं

पूजा ते विषयोपभोग-रचना
निद्रा समाधि-स्थितिः।

सञ्चारः पदयोः प्रदक्षिणविधिः
स्तोत्राणि सर्वा गिरो

यद्यत्कर्म करोमि तत्तदखिलं
शम्भो तवाराधनम्॥

कर-चरण-कृतं वाक् कायजं कर्मजं वा
श्रवण-नयनजं वा मानसं वापराधम्।

विहितमविहितं वा सर्वमेतत्-क्षमस्व
जय जय करुणाब्धे श्री महादेव शम्भो॥


We Hope This Article From “Shiv Manas Puji Lyrics In Hindi/English” +Video Must Have Been Well-liked. What Do You Think About The Song Of “Shiv Manas Puja Bhajan”, You Must Tell Us By Commenting.

Visit AllHindiLyric.com For All Types Of Songs And Bhajans Lyrics + Videos.

Leave a Comment